10th Old Question Paper [ Sanskrit ]

High School Examination (Main) 2023

हाईस्कूल मुख्य परीक्षा वर्ष 2023 

संस्कृत 

SANSKRIT


Tione: 3 Hours 


[Maximum 75 ]


निर्देशा :


(i) सर्व प्रश्नाः अनिवार्याः सन्ति ।

(ii) प्रश्नानां सम्मुखे अक्ङाः प्रदत्ताः।

(iii) सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।


1  उचितं विकल्पं चित्वा लिखत-


(1) 'रमा' इत्यस्य पदे का विभक्ति अस्ति ?

(अ) प्रथमा

(ब) चतुर्थी

(स) पञ्चमी

(द) सप्तमी


(ii) 'अहं श्यः ग्राम गमिष्यामि ।ʼ इत्यस्मिन् वाक्ये अव्ययम् अस्ति -

(अ) अहं

(ब) श्वः

(स) ग्रामं

(द) गमिष्यामि


(iii) 'सदाचारः एव परमो धर्मः ।ʼ अस्मिन् वाक्ये अव्ययम् अस्ति -‌‌

(अ) सदाचार:

(ब) एव

(स) परमः

(द) धर्मः


(iv) 'रामस्य' इत्यस्य पदे वचनम् अस्ति -

(अ) एकवचनम्

(ब) द्विवचनम्

(स) बहुवचनम्

(द) अन्यवचनम्


(v) 'लतायाम्' इत्यस्मिन् पदे का विभक्ति अस्ति ?

(अ) प्रथमा

(ब) द्वितीया

(स) चतुर्थी

(द) सप्तमी


(vi) 'नद्या' इत्यस्य पदे वचनम् अस्ति -

(अ) एकवचनम्

(ब) द्विवचनम्

(स) बहुवचनम्

(द) अन्यवचनम्


2   शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षम् न इति लिखत -

(क) प्राचार्यः' इत्यस्मिन् पदे प्र उपसर्गः अस्ति । 

(ख) निर्धनः' इत्यस्मिन् पदे निस् उपसर्गः अस्ति ।

(ग) 'भविष्यति' इत्यस्मिन् पदे मध्यमपुरुषः अस्ति ।

(घ) 'अगच्छत्' इत्यस्मिन् पदे एकवचनम् अस्ति ।

(ङ) 'पठति' इत्यस्मिन् पदे लट्लकारः अस्ति ।

(च) 'गच्छन्तु' इत्यस्मिन् पदे लृट्लकारः अस्ति ।


3   युग्ममेलनं कुरूत - 1×6=6

(क) मनोरथः          (i) दीर्घस्वरसन्धिः

(ख) रामकृष्णौ       (ii) पञ्चमी तत्पुरुषः

(ग) जगदीशः         (iii) बहुब्रीहि समासः

(घ) पीताम्बरः         (iv) व्यञ्जनसन्धिः

(ङ) विद्यालयः        (v) द्वन्द्वसमासः

(च) चौरात् भयम्    (vi) विसर्गसन्धिः


  एकपदेन उत्तरं लिखत


(क) 'सर्वदा सर्वकार्येषु का बलवती ?

(ख) 'अत्र जीवितं कीदृशं जातम् ?

(ग) केन सम्बन्धेन वाल्मीकिः लवकुशयो: गुरु ?

(घ) 'पठितवान्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ? 

(ङ) 'गन्तुम्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

(च) 'वर्तमानः' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?


5   प्रदत्तः शब्दः रिक्तस्थानानि पूरयत् -


(बालकः, सुन्दरः, निर्थकम् तनुः, रसालम्, गीतानि, दुर्लभः) 

(क) 'सुलभः' इत्यस्य पदस्य ___ विलोमपदं भवति ।

(ख) सार्थकम्' इत्यस्य पदस्य ___ विलोमपदं भवति ।

(ग) मधुराभिः गीतानि इत्यस्मिन् पदयोः____विशेष्यम् अस्ति ।

(घ) सुन्दरः बालकः इत्यस्मिन् पदयोः ____ विशेषणम् अस्ति ।

(ङ) 'आम्रम्' इत्यस्य पदस्य ___ पर्यायः भवति ।

(च) 'शरीरम्' इत्यस्य पदस्य ___ पर्यायः भवति ।


(प्रश्न क्रमांकः 6 तः 10 पर्यन्तं प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-)


6   वस्तुतः चौरः कः आसीत् ?


अथवा


सरसः शोभा केन भवति ?


7  सरसः तीरे के वसन्ति ?


अथवा


जनः किमर्थं पदातिः गच्छति ?


8 अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?


अथवा


व्याघ्रः किं विचार्य पलायितः ?


9 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?


अथवा


मातुः अधिका कृपा कस्मिन् भवति ?


10   केन समः बन्धुः नास्ति ?


अथवा


मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?


11 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत


(i) व्याघ्रः व्याघ्रमारीइयमिति मत्वा पलायितः ।

(ii) व्याघ्रं दृष्ट्वा सा पुत्री ताडयन्ती उवाच - अधुना एकमेव व्याघ्रः विभज्य भुज्यताम् ।

(iii) मार्गे सा एक व्याघ्रम् अपश्यत् ।

(iv) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।



12 वाच्यपरिवर्तन कुरूत - (कोऽपि द्वे)

(i) सः रोटिकां खादति । (कर्मवाच्ये)

(ii) गावकेन गीतं गीयते । (कर्तृवाच्ये)

(iii) छात्र ग्रन्थं पठति । (कर्मवाच्ये)


13 प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एक सुभाषितं लिखत ।


14 स्थूलपदमाधृत्य प्रश्ननिर्माण कुरूत - (कोऽपि द्वे)

(i) जनकेन सुताय शैशवे विद्याधनं दीयते ।

(ii) न्यायधीशः बंकिमचन्द्रः आसीत् ।

(iii) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।


15 अधोलिखितानि वाक्यानि कः के प्रति कथयति -(कोऽपि द्वे)

(1) सव्यवधान न चारित्र्यलोपाय कः कम्

(ii) जानाम्यहं तस्य नामधेयम् कम् कः

(iii) व्यस्य ! अपूर्व खलु नामधेयम् कः कम्


16. अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीया - (कोऽपि द्वे)

(i) श्री गणेशः नमः ।

(ii) वृक्षस्य पत्र पतति ।

(iii) सीता रामस्य सह वनं गच्छति ।


17 प्रदत्तैः शब्दः रिक्तस्थानानि पूरयत - (कोऽपि चत्वारि)

(स्थितप्रज्ञः, यथासमयम्, अहिभुकः, सदा, अत्र, भृशम्)

(i) __ समयस्य सदुपयोगः करणीयः ।

(ii) __ जीवन दुर्वहम् अस्ति । 

(iii) इदानीं वायुमण्डलं __ प्रदूषितमस्ति ।

(iv) सर्वेषामेव महत्त्वं विद्यते __ ।

(v) मयूरः __ इति नाम्नाऽपि ज्ञायते ।

(vi) बक: अविचनः __ इव तिष्ठति ।


18  अधोलिखितम् पचाश सम्यकः पठित्या प्रश्नानाम् उत्तराणि संस्कृतभाषाया लिखत 

आलस्य हि मनुष्याणां शरीरस्थो महान् रिपुः । 

नास्त्युद्यमसमो बन्धुः कृत्वा यं  नावसीदति  ।।

प्रश्नाः 


(i) महान रिपुः कः अस्ति ? 

(ii) केन समः बन्धुः न अस्ति ? 

(iii) के कृत्वा नरः न अवसीदति ?


अथवा


एक एव खगो मानी  वने  वसति चातकः । 

पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥


प्रश्नाः 

(i) कः वने वसति ?

(ii) चातकः कीदृशः खगः वर्तते ? 

(iii) कीदृशः चातकः म्रियते ?


19 अधोलिखितम् नाटा पहिल्या प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -


सिंहः  (क्रोधेन् गर्जन्) भोः ! अहं वनराजः, किं भयं न जायते ? किमर्थं मावेव तुदन्ति सर्वे मिलित्या ?

एक: वानरः - मतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः राजा तु रक्षकः भवति परं भवान् तु भक्षकः अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?

अन्यः वानरः - किं न श्रुता त्वया पञ्चतन्त्रोक्तिः -

यो न रक्षति वित्रस्तान् पीड्यमाना परैः सदा ।

जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ॥


प्रश्नाः 

(i) कः कथयति अहं वनराजः अस्मि ?

(ii) सिंह कि कुर्वम् अवदत् ? 

(iii) वानरः सिंहम् कि कथयति है ?


अथवा


भयाकुलं व्याघ्र दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह - "भवान् कुतः भयात् पलायितः ?"

व्याघ्रः - गच्छ गच्छम् त्वमपि क प्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तान्तुमारब्धः पर गृहीतकरजीवितो नरः ततः प्यार |

श्रृगालः - व्याघ्र ! त्वया महत्कम् आवेदित पन्यानुपादपि बिभेषि ? 

व्याघ्रः - प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तु कलापमानो चपेटा प्रहरन्ती दृष्टा । 

जम्बुक: - स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि सहि त्वया अहं हन्तव्यः इति ।

प्रश्नाः 


(i) श्रृगालः कीदृशः आसीत् ?

(ii) व्याघ्रः कया प्रहरन्ती दृष्टा ?

(iii) व्याघ्रेन किं कुर्वन्ती सा दृष्टा: ?


20  अधोलिखितम् गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत- 

कश्चित् कृषकः बलीवर्दाच्या क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बल वृषभं तोदनेन नुदन् अवर्तत । सः वृषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितु बहुचारम् पत्नमकरोत् । तथापि यृपः नोत्थितः । भूमौ पतितं स्वपुत्र दृश्या सर्वधेनूनां मातु सुरभे: नेत्राभ्याम् भूणि आविरान् ।


प्रश्नाः 


(i) कृषकः काभ्यां क्षेत्रकृर्षण कुर्वन्नासीत् ?

(ii) तयोः बलीवर्दयोः एकः कीदृशः आसीत् ?

(iii) मातुः सुरभे: नेत्राभ्यां कानि आविरासन् ?


अथवा


विचित्रा देवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेका मनूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशक्ङया तमन्वधावत् अगृह्णाच्च परं तदानीमेव किञ्चिद् विचित्रमघटत । चौरः एव उच्चैः क्रोशितुमारभत "चौरोऽयं चौरोऽयम्" इति । तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौर मत्वाऽभत्र्सयन् । यद्यपि ग्रामस्य आरक्षी एवं चौरः आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथि चोररोऽयम इति प्रख्यान्य कारागृहे प्राक्षिपत् ।


प्रश्नाः 


(i) गृहाभ्यान्तर कः प्रविष्टः ?

(ii) देवगति की जीत ? 

(iii) ग्रामवासिनः किम् अकुर्वन् ?


21 अधोलिखितेषु एक विषय स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत -

(i) संस्कृतभाषायाः महत्वम् ।

(ii) कविः कालिदासः ।

(iii) छात्रजीवनम् ।

(iv) दूरदर्शनम् ।


22 स्वप्राचार्यस्यकृते अवकाशार्थम् एकं प्रार्थनापत्रम् संस्कृतभाषायां लिखत । 

अथवा 

स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रं लिखत ।


23 अधोलिखितम् अपठितगद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत - 

कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म । नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म । एकदा संन्यासी शिष्यैः सह नद्याः अपर तीरं गन्तुम् एका नौकाम् आरूढवान् । वेगेन प्रवहन्त्या नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत् । तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः । संन्यासी अकथयत् तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये । अतः ते सर्वे मरणं प्राप्तवन्तः । 

(i) संन्यासी कुत्र वसति स्म ?

(ii) नौका कस्याः घटेन निमग्ना अभयत ?

(iii) एकदा संन्यासी कैः सह नद्याः अपर वीरं गतवान् ? 

(iv) सन्यासी किम् अकथत् ?


Comments

Popular posts from this blog

MPBSE 10th & 12th Result

10th Maths 4.3

RSKMP 5th & 8th Result