10th Old Question Paper [ Sanskrit ]

High School Examination (Main) 2023

हाईस्कूल मुख्य परीक्षा वर्ष 2023 

संस्कृत 

SANSKRIT


Tione: 3 Hours 


[Maximum 75 ]


निर्देशा :


(i) सर्व प्रश्नाः अनिवार्याः सन्ति ।

(ii) प्रश्नानां सम्मुखे अक्ङाः प्रदत्ताः।

(iii) सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।


1  उचितं विकल्पं चित्वा लिखत-


(1) 'रमा' इत्यस्य पदे का विभक्ति अस्ति ?

(अ) प्रथमा

(ब) चतुर्थी

(स) पञ्चमी

(द) सप्तमी


(ii) 'अहं श्यः ग्राम गमिष्यामि ।ʼ इत्यस्मिन् वाक्ये अव्ययम् अस्ति -

(अ) अहं

(ब) श्वः

(स) ग्रामं

(द) गमिष्यामि


(iii) 'सदाचारः एव परमो धर्मः ।ʼ अस्मिन् वाक्ये अव्ययम् अस्ति -‌‌

(अ) सदाचार:

(ब) एव

(स) परमः

(द) धर्मः


(iv) 'रामस्य' इत्यस्य पदे वचनम् अस्ति -

(अ) एकवचनम्

(ब) द्विवचनम्

(स) बहुवचनम्

(द) अन्यवचनम्


(v) 'लतायाम्' इत्यस्मिन् पदे का विभक्ति अस्ति ?

(अ) प्रथमा

(ब) द्वितीया

(स) चतुर्थी

(द) सप्तमी


(vi) 'नद्या' इत्यस्य पदे वचनम् अस्ति -

(अ) एकवचनम्

(ब) द्विवचनम्

(स) बहुवचनम्

(द) अन्यवचनम्


2   शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षम् न इति लिखत -

(क) प्राचार्यः' इत्यस्मिन् पदे प्र उपसर्गः अस्ति । 

(ख) निर्धनः' इत्यस्मिन् पदे निस् उपसर्गः अस्ति ।

(ग) 'भविष्यति' इत्यस्मिन् पदे मध्यमपुरुषः अस्ति ।

(घ) 'अगच्छत्' इत्यस्मिन् पदे एकवचनम् अस्ति ।

(ङ) 'पठति' इत्यस्मिन् पदे लट्लकारः अस्ति ।

(च) 'गच्छन्तु' इत्यस्मिन् पदे लृट्लकारः अस्ति ।


3   युग्ममेलनं कुरूत - 1×6=6

(क) मनोरथः          (i) दीर्घस्वरसन्धिः

(ख) रामकृष्णौ       (ii) पञ्चमी तत्पुरुषः

(ग) जगदीशः         (iii) बहुब्रीहि समासः

(घ) पीताम्बरः         (iv) व्यञ्जनसन्धिः

(ङ) विद्यालयः        (v) द्वन्द्वसमासः

(च) चौरात् भयम्    (vi) विसर्गसन्धिः


4    एकपदेन उत्तरं लिखत


(क) 'सर्वदा सर्वकार्येषु का बलवती ?

(ख) 'अत्र जीवितं कीदृशं जातम् ?

(ग) केन सम्बन्धेन वाल्मीकिः लवकुशयो: गुरु ?

(घ) 'पठितवान्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ? 

(ङ) 'गन्तुम्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

(च) 'वर्तमानः' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?


5   प्रदत्तः शब्दः रिक्तस्थानानि पूरयत् -


(बालकः, सुन्दरः, निर्थकम् तनुः, रसालम्, गीतानि, दुर्लभः) 

(क) 'सुलभः' इत्यस्य पदस्य ___ विलोमपदं भवति ।

(ख) सार्थकम्' इत्यस्य पदस्य ___ विलोमपदं भवति ।

(ग) मधुराभिः गीतानि इत्यस्मिन् पदयोः____विशेष्यम् अस्ति ।

(घ) सुन्दरः बालकः इत्यस्मिन् पदयोः ____ विशेषणम् अस्ति ।

(ङ) 'आम्रम्' इत्यस्य पदस्य ___ पर्यायः भवति ।

(च) 'शरीरम्' इत्यस्य पदस्य ___ पर्यायः भवति ।


(प्रश्न क्रमांकः 6 तः 10 पर्यन्तं प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-)


6   वस्तुतः चौरः कः आसीत् ?


अथवा


सरसः शोभा केन भवति ?


7  सरसः तीरे के वसन्ति ?


अथवा


जनः किमर्थं पदातिः गच्छति ?


8 अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?


अथवा


व्याघ्रः किं विचार्य पलायितः ?


9 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?


अथवा


मातुः अधिका कृपा कस्मिन् भवति ?


10   केन समः बन्धुः नास्ति ?


अथवा


मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?


11 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत


(i) व्याघ्रः व्याघ्रमारीइयमिति मत्वा पलायितः ।

(ii) व्याघ्रं दृष्ट्वा सा पुत्री ताडयन्ती उवाच - अधुना एकमेव व्याघ्रः विभज्य भुज्यताम् ।

(iii) मार्गे सा एक व्याघ्रम् अपश्यत् ।

(iv) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।



12 वाच्यपरिवर्तन कुरूत - (कोऽपि द्वे)

(i) सः रोटिकां खादति । (कर्मवाच्ये)

(ii) गावकेन गीतं गीयते । (कर्तृवाच्ये)

(iii) छात्र ग्रन्थं पठति । (कर्मवाच्ये)


13 प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एक सुभाषितं लिखत ।


14 स्थूलपदमाधृत्य प्रश्ननिर्माण कुरूत - (कोऽपि द्वे)

(i) जनकेन सुताय शैशवे विद्याधनं दीयते ।

(ii) न्यायधीशः बंकिमचन्द्रः आसीत् ।

(iii) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।


15 अधोलिखितानि वाक्यानि कः के प्रति कथयति -(कोऽपि द्वे)

(1) सव्यवधान न चारित्र्यलोपाय कः कम्

(ii) जानाम्यहं तस्य नामधेयम् कम् कः

(iii) व्यस्य ! अपूर्व खलु नामधेयम् कः कम्


16. अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीया - (कोऽपि द्वे)

(i) श्री गणेशः नमः ।

(ii) वृक्षस्य पत्र पतति ।

(iii) सीता रामस्य सह वनं गच्छति ।


17 प्रदत्तैः शब्दः रिक्तस्थानानि पूरयत - (कोऽपि चत्वारि)

(स्थितप्रज्ञः, यथासमयम्, अहिभुकः, सदा, अत्र, भृशम्)

(i) __ समयस्य सदुपयोगः करणीयः ।

(ii) __ जीवन दुर्वहम् अस्ति । 

(iii) इदानीं वायुमण्डलं __ प्रदूषितमस्ति ।

(iv) सर्वेषामेव महत्त्वं विद्यते __ ।

(v) मयूरः __ इति नाम्नाऽपि ज्ञायते ।

(vi) बक: अविचनः __ इव तिष्ठति ।


18  अधोलिखितम् पचाश सम्यकः पठित्या प्रश्नानाम् उत्तराणि संस्कृतभाषाया लिखत 

आलस्य हि मनुष्याणां शरीरस्थो महान् रिपुः । 

नास्त्युद्यमसमो बन्धुः कृत्वा यं  नावसीदति  ।।

प्रश्नाः 


(i) महान रिपुः कः अस्ति ? 

(ii) केन समः बन्धुः न अस्ति ? 

(iii) के कृत्वा नरः न अवसीदति ?


अथवा


एक एव खगो मानी  वने  वसति चातकः । 

पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥


प्रश्नाः 

(i) कः वने वसति ?

(ii) चातकः कीदृशः खगः वर्तते ? 

(iii) कीदृशः चातकः म्रियते ?


19 अधोलिखितम् नाटा पहिल्या प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -


सिंहः  (क्रोधेन् गर्जन्) भोः ! अहं वनराजः, किं भयं न जायते ? किमर्थं मावेव तुदन्ति सर्वे मिलित्या ?

एक: वानरः - मतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः राजा तु रक्षकः भवति परं भवान् तु भक्षकः अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?

अन्यः वानरः - किं न श्रुता त्वया पञ्चतन्त्रोक्तिः -

यो न रक्षति वित्रस्तान् पीड्यमाना परैः सदा ।

जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ॥


प्रश्नाः 

(i) कः कथयति अहं वनराजः अस्मि ?

(ii) सिंह कि कुर्वम् अवदत् ? 

(iii) वानरः सिंहम् कि कथयति है ?


अथवा


भयाकुलं व्याघ्र दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह - "भवान् कुतः भयात् पलायितः ?"

व्याघ्रः - गच्छ गच्छम् त्वमपि क प्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तान्तुमारब्धः पर गृहीतकरजीवितो नरः ततः प्यार |

श्रृगालः - व्याघ्र ! त्वया महत्कम् आवेदित पन्यानुपादपि बिभेषि ? 

व्याघ्रः - प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तु कलापमानो चपेटा प्रहरन्ती दृष्टा । 

जम्बुक: - स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि सहि त्वया अहं हन्तव्यः इति ।

प्रश्नाः 


(i) श्रृगालः कीदृशः आसीत् ?

(ii) व्याघ्रः कया प्रहरन्ती दृष्टा ?

(iii) व्याघ्रेन किं कुर्वन्ती सा दृष्टा: ?


20  अधोलिखितम् गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत- 

कश्चित् कृषकः बलीवर्दाच्या क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बल वृषभं तोदनेन नुदन् अवर्तत । सः वृषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितु बहुचारम् पत्नमकरोत् । तथापि यृपः नोत्थितः । भूमौ पतितं स्वपुत्र दृश्या सर्वधेनूनां मातु सुरभे: नेत्राभ्याम् भूणि आविरान् ।


प्रश्नाः 


(i) कृषकः काभ्यां क्षेत्रकृर्षण कुर्वन्नासीत् ?

(ii) तयोः बलीवर्दयोः एकः कीदृशः आसीत् ?

(iii) मातुः सुरभे: नेत्राभ्यां कानि आविरासन् ?


अथवा


विचित्रा देवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेका मनूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशक्ङया तमन्वधावत् अगृह्णाच्च परं तदानीमेव किञ्चिद् विचित्रमघटत । चौरः एव उच्चैः क्रोशितुमारभत "चौरोऽयं चौरोऽयम्" इति । तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौर मत्वाऽभत्र्सयन् । यद्यपि ग्रामस्य आरक्षी एवं चौरः आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथि चोररोऽयम इति प्रख्यान्य कारागृहे प्राक्षिपत् ।


प्रश्नाः 


(i) गृहाभ्यान्तर कः प्रविष्टः ?

(ii) देवगति की जीत ? 

(iii) ग्रामवासिनः किम् अकुर्वन् ?


21 अधोलिखितेषु एक विषय स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत -

(i) संस्कृतभाषायाः महत्वम् ।

(ii) कविः कालिदासः ।

(iii) छात्रजीवनम् ।

(iv) दूरदर्शनम् ।


22 स्वप्राचार्यस्यकृते अवकाशार्थम् एकं प्रार्थनापत्रम् संस्कृतभाषायां लिखत । 

अथवा 

स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रं लिखत ।


23 अधोलिखितम् अपठितगद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत - 

कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म । नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म । एकदा संन्यासी शिष्यैः सह नद्याः अपर तीरं गन्तुम् एका नौकाम् आरूढवान् । वेगेन प्रवहन्त्या नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत् । तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः । संन्यासी अकथयत् तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये । अतः ते सर्वे मरणं प्राप्तवन्तः । 

(i) संन्यासी कुत्र वसति स्म ?

(ii) नौका कस्याः घटेन निमग्ना अभयत ?

(iii) एकदा संन्यासी कैः सह नद्याः अपर वीरं गतवान् ? 

(iv) सन्यासी किम् अकथत् ?


Comments

Popular posts from this blog

Cabinet Ministers of India (2025) Quiz

MPBSE 10th & 12th Result

Asian Countries Capitals Quiz